वांछित मन्त्र चुनें

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒: सामा॑नि जज्ञिरे । छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥

अंग्रेज़ी लिप्यंतरण

tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire | chandāṁsi jajñire tasmād yajus tasmād ajāyata ||

पद पाठ

तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । ऋचः॑ । सामा॑नि । ज॒ज्ञि॒रे॒ । छन्दां॑सि । ज॒ज्ञि॒रे॒ । तस्मा॑त् । यजुः॑ । तस्मा॑त् । अ॒जा॒य॒त॒ ॥ १०.९०.९

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:9 | अष्टक:8» अध्याय:4» वर्ग:18» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तस्मात् सर्वहुतः-यज्ञात्) उस सर्वहुत सङ्गमनीय परमात्मा से (ऋचः सामानि जज्ञिरे) ऋग्वेद के मन्त्र सामवेद के मन्त्र उत्पन्न हुए (तस्मात् छन्दांसि जज्ञिरे) उसी से अथर्ववेद के मन्त्र उत्पन्न हुए (तस्मात्-यजुः अजायत) उस परमात्मा से यजुर्वेद उत्पन्न हुआ ॥९॥
भावार्थभाषाः - परमात्मा ने ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद उत्पन्न किये हैं ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तस्मात् सर्वहुतः-यज्ञात्) तस्मात् पूर्वोक्तात् सर्वहुतः सङ्गमनीयात् परमात्मनः (ऋचः सामानि-जज्ञिरे) ऋग्वेदमन्त्राः-सामवेदमन्त्राः-उत्पन्नाः-प्रादुर्भूताः। (तस्मात्-छन्दांसि जज्ञिरे) तस्मादेव-अथर्ववेदमन्त्राः प्रादुर्भूताः “यदिदं किञ्च ऋचो यजूंषि सामानि-छन्दांसि [बृह० १।२।५] (तस्मात्-यजुः-अजायत) तस्मात् परमात्मनो यजुर्वेदः प्रादुर्भूतः ॥९॥